Original

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ।द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः ॥ ४ ॥

Segmented

यम् पृष्ठतो ऽनुगच्छन्ति शतशो ऽथ सहस्रशः द्रुमान् उद्यम्य सहिता लङ्का-आरोहण-तत्पराः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुगच्छन्ति अनुगम् pos=v,p=3,n=p,l=lat
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
सहिता सहित pos=a,g=m,c=1,n=p
लङ्का लङ्का pos=n,comp=y
आरोहण आरोहण pos=n,comp=y
तत्पराः तत्पर pos=a,g=m,c=1,n=p