Original

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः ॥ ५ ॥

Segmented

ताभ्याम् चराभ्याम् सहितो रावणः क्रोध-मूर्छितः पश्यमानः समुद्रम् च पर्वतान् च वनानि च ददर्श पृथिवी-देशम् सु सम्पूर्णम् प्लवंगमैः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
चराभ्याम् चर pos=n,g=m,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
पश्यमानः पश् pos=va,g=m,c=1,n=s,f=part
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
सु सु pos=i
सम्पूर्णम् सम्पृ pos=va,g=m,c=2,n=s,f=part
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p