Original

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ।लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २४ ॥

Segmented

एक-स्थान-गताः यत्र चत्वारः पुरुष-ऋषभाः लोकपाल-उपमाः शूराः कृतास्त्रा दृढ-विक्रमाः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
स्थान स्थान pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
दृढ दृढ pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p