Original

तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः ।आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ।लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ ॥ १३ ॥

Segmented

तौ ददर्श महा-तेजाः प्रच्छन्नौ च विभीषणः आचचक्षे ऽथ रामाय गृहीत्वा शुक-सारणौ लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रच्छन्नौ प्रच्छद् pos=va,g=m,c=2,n=d,f=part
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
रामाय राम pos=n,g=m,c=4,n=s
गृहीत्वा ग्रह् pos=vi
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=2,n=d
लङ्कायाः लङ्का pos=n,g=f,c=5,n=s
समनुप्राप्तौ समनुप्राप् pos=va,g=m,c=1,n=d,f=part
चारौ चार pos=n,g=m,c=1,n=d
परपुरंजयौ परपुरंजय pos=a,g=m,c=1,n=d