Original

एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् ।मध्ये वानरमुख्यानां राजानं रामशासनात् ॥ ९ ॥

Segmented

एवम् उक्तवान् तु सौमित्रिः अभ्यषिञ्चद् विभीषणम् मध्ये वानर-मुख्यानाम् राजानम् राम-शासनात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अभ्यषिञ्चद् अभिषिच् pos=v,p=3,n=s,l=lan
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s