Original

ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः ।विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः ॥ २२ ॥

Segmented

ततस् तु सुग्रीव-वचः निशम्य तद्-हरि-ईश्वरेण अभिहितम् नरेश्वरः विभीषणेन आशु जगाम संगमम् पतत्रिन्-राजेन यथा पुरंदरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सुग्रीव सुग्रीव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
तद् तद् pos=n,comp=y
हरि हरि pos=n,comp=y
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
अभिहितम् अभिधा pos=va,g=n,c=2,n=s,f=part
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
संगमम् संगम pos=n,g=m,c=2,n=s
पतत्रिन् पतत्रिन् pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
यथा यथा pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s