Original

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ४६ ॥

Segmented

यथा प्रत्यूष-समये चतुर्णाम् सागर-अम्भसाम् पूर्णैः घटैः प्रतीक्षध्वम् तथा कुरुत वानराः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रत्यूष प्रत्यूष pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
चतुर्णाम् चतुर् pos=n,g=n,c=6,n=p
सागर सागर pos=n,comp=y
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
पूर्णैः पूर्ण pos=a,g=m,c=3,n=p
घटैः घट pos=n,g=m,c=3,n=p
प्रतीक्षध्वम् प्रतीक्ष् pos=v,p=2,n=p,l=lot
तथा तथा pos=i
कुरुत कृ pos=v,p=2,n=p,l=lot
वानराः वानर pos=n,g=m,c=8,n=p