Original

गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः ।गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान् ।आसेदतुर्महारण्ये कबन्धं नाम राक्षसं ॥ २७ ॥

Segmented

गृध्रम् हतम् तदा दग्ध्वा रामः प्रिय-सखम् पितुः गोदावरीम् अनुचरन् वन-उद्देशान् च पुष्पितान् आसेदतुः महा-अरण्ये कबन्धम् नाम राक्षसम्

Analysis

Word Lemma Parse
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
दग्ध्वा दह् pos=vi
रामः राम pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सखम् सख pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
अनुचरन् अनुचर् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
उद्देशान् उद्देश pos=n,g=m,c=2,n=p
pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
आसेदतुः आसद् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
नाम नाम pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s