Original

एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः ॥ ५ ॥

Segmented

एवम् उक्तो हनुमता रामो धर्म-भृताम् वरः अगच्छत् सहसा ध्यानम् आसीद् बाष्प-परिप्लुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बाष्प बाष्प pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part