Original

एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ २८ ॥

Segmented

एवंप्रकारैः बहुभिः विप्रकारैः यशस्विनि हन्तुम् इच्छामि अहम् देवि ते इमाः कृत-किल्बिषाः

Analysis

Word Lemma Parse
एवंप्रकारैः एवंप्रकार pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
विप्रकारैः विप्रकार pos=n,g=m,c=3,n=p
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
हन्तुम् हन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
इमाः इदम् pos=n,g=f,c=2,n=p
कृत कृ pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=f,c=2,n=p