Original

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः ॥ १ ॥

Segmented

ते रावण-वधम् दृष्ट्वा देव-गन्धर्व-दानवाः जग्मुः तैः तैः विमानैः स्वैः कथयन्तः शुभाः कथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विमानैः विमान pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
शुभाः शुभ pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p