Original

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ।अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ १ ॥

Segmented

सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् अब्रवीत् परुषम् वाक्यम् रावणः काल-चोदितः

Analysis

Word Lemma Parse
सुनिविष्टम् सुनिविष्ट pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part