Original

समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ २१ ॥

Segmented

समैः ऋजुभिः अत्युच्चैः समन्तात् सु विभूषितैः स्तम्भैः पक्षैः इव अत्युच्चैः दिवम् सम्प्रस्थिताम् इव

Analysis

Word Lemma Parse
समैः सम pos=n,g=m,c=3,n=p
ऋजुभिः ऋजु pos=a,g=m,c=3,n=p
अत्युच्चैः अत्युच्च pos=a,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
सु सु pos=i
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
पक्षैः पक्ष pos=n,g=m,c=3,n=p
इव इव pos=i
अत्युच्चैः अत्युच्च pos=a,g=m,c=3,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
सम्प्रस्थिताम् सम्प्रस्था pos=va,g=f,c=2,n=s,f=part
इव इव pos=i