Original

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ १८ ॥

Segmented

ततस् ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् रावणस्य मनः-कान्ताम् कान्ताम् इव वर-स्त्रियम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
शालाम् शाला pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
इव इव pos=i
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s