Original

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि ।किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥ १८ ॥

Segmented

एवम् अस्त्र-विदाम् श्रेष्ठः सत्त्ववाञ् शीलवान् अपि किम् अर्थम् अस्त्रम् रक्षःसु न योजयसि राघव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सत्त्ववाञ् सत्त्ववत् pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
pos=i
योजयसि योजय् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s