Original

हनूमता दत्तवरैर्हतं मधुवनं बलात् ।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ १५ ॥

Segmented

हनूमता दत्त-वरैः हतम् मधुवनम् बलात् वयम् च जानुभिः कृष्टा देवमार्गम् च दर्शिताः

Analysis

Word Lemma Parse
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
दत्त दा pos=va,comp=y,f=part
वरैः वर pos=n,g=m,c=3,n=p
हतम् हन् pos=va,g=n,c=1,n=s,f=part
मधुवनम् मधुवन pos=n,g=n,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
जानुभिः जानु pos=n,g=m,c=3,n=p
कृष्टा कृष् pos=va,g=m,c=1,n=p,f=part
देवमार्गम् देवमार्ग pos=n,g=m,c=2,n=s
pos=i
दर्शिताः दर्शय् pos=va,g=m,c=1,n=p,f=part