Original

निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ।मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २ ॥

Segmented

निवेशनानाम् विविधाः च शालाः प्रधान-शङ्ख-आयुध-चाप-शालाः मनोहराः च अपि पुनः विशाला ददर्श वेश्म-अद्रि चन्द्रशालाः

Analysis

Word Lemma Parse
निवेशनानाम् निवेशन pos=n,g=n,c=6,n=p
विविधाः विविध pos=a,g=f,c=2,n=p
pos=i
शालाः शाला pos=n,g=f,c=2,n=p
प्रधान प्रधान pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
आयुध आयुध pos=n,comp=y
चाप चाप pos=n,comp=y
शालाः शाला pos=n,g=f,c=2,n=p
मनोहराः मनोहर pos=a,g=f,c=2,n=p
pos=i
अपि अपि pos=i
पुनः पुनर् pos=i
विशाला विशाल pos=a,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
वेश्म वेश्मन् pos=n,comp=y
अद्रि अद्रि pos=n,g=m,c=7,n=p
चन्द्रशालाः चन्द्रशाला pos=n,g=f,c=2,n=p