Original

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ४ ॥

Segmented

सभाज्यमानम् भूतैः तम् आत्मवन्तम् महा-बलम् हनूमन्तम् महा-वेगम् वहन्त इव दृष्टिभिः

Analysis

Word Lemma Parse
सभाज्यमानम् सभाजय् pos=va,g=m,c=2,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
आत्मवन्तम् आत्मवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
वहन्त वह् pos=v,p=3,n=p,l=lat
इव इव pos=i
दृष्टिभिः दृष्टि pos=n,g=f,c=3,n=p