Original

न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र ।यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् ॥ २२ ॥

Segmented

न तावद् एषा मतिः अक्षमा नो यथा भवान् पश्यति राज-पुत्र यथा तु रामस्य मतिः निविष्टा तथा भवान् पश्यतु कार्य-सिद्धिम्

Analysis

Word Lemma Parse
pos=i
तावद् तावत् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
अक्षमा अक्षम pos=a,g=f,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
निविष्टा निविश् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
कार्य कार्य pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s