Original

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ १२ ॥

Segmented

सर्वेषाम् एव पर्याप्तो राक्षसानाम् अहम् युधि किम् तु रामस्य प्रीति-अर्थम् विषहिष्ये ऽहम् ईदृशम्

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विषहिष्ये विषह् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s