Original

तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ॥ १९ ॥

Segmented

तेन बिभ्यति खलु अस्मात् लोकाः स अमर-दानवाः अयम् हि उत्सहते क्रुद्धः कर्तुम् एकार्णवम् जगत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
बिभ्यति भी pos=v,p=3,n=p,l=lat
खलु खलु pos=i
अस्मात् इदम् pos=n,g=n,c=5,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
अमर अमर pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्तुम् कृ pos=vi
एकार्णवम् एकार्णव pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s