Original

ततोऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद्विगताल्पवेगः ।पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ॥ ३७ ॥

Segmented

ततो ऽथ बुद्ध्वा स तदा अस्त्रबन्धम् प्रभोः प्रभावाद् विगत-अल्प-वेगः पितामह-अनुग्रहम् आत्मनः च विचिन्तयामास हरि-प्रवीरः

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
बुद्ध्वा बुध् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अस्त्रबन्धम् अस्त्रबन्ध pos=n,g=m,c=2,n=s
प्रभोः प्रभु pos=n,g=m,c=6,n=s
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
विगत विगम् pos=va,comp=y,f=part
अल्प अल्प pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,comp=y
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
विचिन्तयामास विचिन्तय् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s