Original

स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५ ॥

Segmented

स तम् समाविध्य सहस्रशः कपिः महा-उरगम् गृह्य इव अण्डजेश्वरः मुमोच वेगात् पितृ-तुल्य-विक्रमः मही-तले संयति वानर-उत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समाविध्य समाव्यध् pos=vi
सहस्रशः सहस्रशस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उरगम् उरग pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
इव इव pos=i
अण्डजेश्वरः अण्डजेश्वर pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
पितृ पितृ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
संयति संयत् pos=n,g=f,c=7,n=s
वानर वानर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s