Original

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः ॥ २८ ॥

Segmented

पराक्रम-उत्साह-विवृद्ध-मानसः समीक्षते माम् प्रमुख-आगतः स्थितः पराक्रमो हि अस्य मनांसि कम्पयेत् सुर-असुराणाम् अपि शीघ्र-कारिणः

Analysis

Word Lemma Parse
पराक्रम पराक्रम pos=n,comp=y
उत्साह उत्साह pos=n,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
समीक्षते समीक्ष् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
प्रमुख प्रमुख pos=a,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पराक्रमो पराक्रम pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
कम्पयेत् कम्पय् pos=v,p=3,n=s,l=vidhilin
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
शीघ्र शीघ्र pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s