Original

ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् ।तदेव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥

Segmented

ततः कपिः तान् ध्वजिनी-पतीन् रणे निहत्य वीरान् स बलान् स वाहनान् तद् एव वीरः परिगृह्य तोरणम् कृतक्षणः काल इव प्रजा-क्षये

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ध्वजिनी ध्वजिनी pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
निहत्य निहन् pos=vi
वीरान् वीर pos=n,g=m,c=2,n=p
pos=i
बलान् बल pos=n,g=m,c=2,n=p
pos=i
वाहनान् वाहन pos=n,g=m,c=2,n=p
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वीरः वीर pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
तोरणम् तोरण pos=n,g=n,c=2,n=s
कृतक्षणः कृतक्षण pos=a,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजा प्रजा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s