Original

स तान्प्रवृद्धान्विनिहत्य राक्षसान्महाबलश्चण्डपराक्रमः कपिः ।युयुत्सुरन्यैः पुनरेव राक्षसैस्तदेव वीरोऽभिजगाम तोरणम् ॥ १६ ॥

Segmented

स तान् प्रवृद्धान् विनिहत्य राक्षसान् महा-बलः चण्ड-पराक्रमः कपिः युयुत्सुः अन्यैः पुनः एव राक्षसैस् तद् एव वीरो ऽभिजगाम तोरणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रवृद्धान् प्रवृध् pos=va,g=m,c=2,n=p,f=part
विनिहत्य विनिहन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चण्ड चण्ड pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
एव एव pos=i
राक्षसैस् राक्षस pos=n,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वीरो वीर pos=n,g=m,c=1,n=s
ऽभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
तोरणम् तोरण pos=n,g=n,c=2,n=s