Original

तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् ।निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ २४ ॥

Segmented

तेषाम् अशीति-साहस्रम् किंकराणाम् तरस्विनाम् निर्ययुः भवनात् तस्मात् कूटमुद्गर-पाणयः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अशीति अशीति pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
किंकराणाम् किंकर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
भवनात् भवन pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
कूटमुद्गर कूटमुद्गर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p