Original

ततः प्रियान्प्राप्य मनोऽभिरामान्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ।गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ १८ ॥

Segmented

ततः प्रियान् प्राप्य मनः-अभिरामान् सुप्रीति-युक्ताः प्रसमीक्ष्य रामाः गृहेषु हृष्टाः परम-अभिरामाः हरि-प्रवीरः स ददर्श रामाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
मनः मनस् pos=n,comp=y
अभिरामान् अभिराम pos=a,g=m,c=2,n=p
सुप्रीति सुप्रीति pos=n,comp=y
युक्ताः युज् pos=va,g=f,c=2,n=p,f=part
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
रामाः रामा pos=n,g=f,c=2,n=p
गृहेषु गृह pos=n,g=n,c=7,n=p
हृष्टाः हृष् pos=va,g=f,c=2,n=p,f=part
परम परम pos=a,comp=y
अभिरामाः अभिराम pos=a,g=f,c=2,n=p
हरि हरि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रामाः रामा pos=n,g=f,c=2,n=p