Original

अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्ध्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ १७ ॥

Segmented

अप्रावृताः काञ्चन-राजि-वर्णाः काश्चित् परार्ध्याः तपनीय-वर्णाः पुनः च काश्चिद् शशलक्ष्मन्-वर्णाः कान्त-प्रहीणाः रुचिर-अङ्ग-वर्णाः

Analysis

Word Lemma Parse
अप्रावृताः अप्रावृत pos=a,g=f,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
राजि राजि pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p
काश्चित् कश्चित् pos=n,g=f,c=2,n=p
परार्ध्याः परार्ध्य pos=a,g=f,c=2,n=p
तपनीय तपनीय pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
pos=i
काश्चिद् कश्चित् pos=n,g=f,c=2,n=p
शशलक्ष्मन् शशलक्ष्मन् pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p
कान्त कान्त pos=n,comp=y
प्रहीणाः प्रहा pos=va,g=f,c=2,n=p,f=part
रुचिर रुचिर pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=2,n=p