Original

यवीयान्केन मे भ्राता हतः क्व च विनाशितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ५९ ॥

Segmented

यवीयान् केन मे भ्राता हतः क्व च विनाशितः एतद् आख्यातुम् इच्छामि भवद्भिः वानर-उत्तमाः

Analysis

Word Lemma Parse
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
pos=i
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवद्भिः भवत् pos=a,g=m,c=3,n=p
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p