Original

गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ५८ ॥

Segmented

गृध्र-राजस्य सोदर्यः संपातिः नाम गृध्रराट् श्रुत्वा भ्रातृ-वधम् कोपाद् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सोदर्यः सोदर्य pos=a,g=m,c=1,n=s
संपातिः सम्पाति pos=n,g=m,c=1,n=s
नाम नाम pos=i
गृध्रराट् गृध्रराज् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan