Original

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयामास विशालनेत्रा ॥ ३ ॥

Segmented

सा तम् समीक्ष्य एव भृशम् विसंज्ञा गतासु-कल्पा इव बभूव सीता चिरेण संज्ञाम् प्रतिलभ्य च एव विचिन्तयामास विशाल-नेत्रा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
भृशम् भृशम् pos=i
विसंज्ञा विसंज्ञ pos=a,g=f,c=1,n=s
गतासु गतासु pos=a,comp=y
कल्पा कल्प pos=a,g=f,c=1,n=s
इव इव pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
चिरेण चिर pos=a,g=n,c=3,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
एव एव pos=i
विचिन्तयामास विचिन्तय् pos=v,p=3,n=s,l=lit
विशाल विशाल pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s