Original

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।प्राकारावृतमत्यन्तं ददर्श स महाकपिः ॥ ३४ ॥

Segmented

शत-साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः प्राकार-आवृतम् अत्यन्तम् ददर्श स महा-कपिः

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
साहस्रम् साहस्र pos=a,g=m,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
आरक्षम् आरक्ष pos=n,g=m,c=2,n=s
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
प्राकार प्राकार pos=n,comp=y
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s