Original

कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ।न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥

Segmented

कामम् हन्तुम् समर्थो ऽस्मि सहस्राणि अपि रक्षसाम् न तु शक्ष्यामि सम्प्राप्तुम् परम् पारम् महा-उदधेः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
हन्तुम् हन् pos=vi
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
अपि अपि pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
pos=i
तु तु pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
सम्प्राप्तुम् सम्प्राप् pos=vi
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s