Original

शोकानिमित्तानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके ।प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥ २० ॥

Segmented

शोक-अनिमित्तानि तदा बहूनि धैर्य-अर्जितानि प्रवराणि लोके प्रादुः निमित्तानि तदा बभूवुः पुरा अपि सिद्धानि उपलक्षितानि

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
अनिमित्तानि अनिमित्त pos=a,g=n,c=1,n=p
तदा तदा pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
धैर्य धैर्य pos=n,comp=y
अर्जितानि अर्जय् pos=va,g=n,c=1,n=p,f=part
प्रवराणि प्रवर pos=a,g=n,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
प्रादुः प्रादुर् pos=i
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
तदा तदा pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
पुरा पुरा pos=i
अपि अपि pos=i
सिद्धानि सिध् pos=va,g=n,c=1,n=p,f=part
उपलक्षितानि उपलक्षय् pos=va,g=n,c=1,n=p,f=part