Original

शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेण्युद्ग्रथनं गृहीत्वा ।उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ १७ ॥

Segmented

शोक-अभितप्ता बहुधा विचिन्त्य सीता अथ वेणी-उद्ग्रथनम् गृहीत्वा उद्बध्य वेणी-उद्ग्रथनेन शीघ्रम् अहम् गमिष्यामि यमस्य मूलम्

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
अभितप्ता अभितप् pos=va,g=f,c=1,n=s,f=part
बहुधा बहुधा pos=i
विचिन्त्य विचिन्तय् pos=vi
सीता सीता pos=n,g=f,c=1,n=s
अथ अथ pos=i
वेणी वेणी pos=n,comp=y
उद्ग्रथनम् उद्ग्रथन pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
उद्बध्य उद्बन्ध् pos=vi
वेणी वेणी pos=n,comp=y
उद्ग्रथनेन उद्ग्रथन pos=n,g=n,c=3,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यमस्य यम pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s