Original

चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५४ ॥

Segmented

चन्द्रो ऽपि साचिव्यम् इव अस्य कुर्वंस् तारा-गणैः मध्य-गतः विराजन् ज्योत्स्ना-वितानेन वितत्य लोकम् उत्तिष्ठते न एक-सहस्र-रश्मिः

Analysis

Word Lemma Parse
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कुर्वंस् कृ pos=va,g=m,c=1,n=s,f=part
तारा तारा pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
विराजन् विराज् pos=va,g=m,c=1,n=s,f=part
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
वितानेन वितान pos=n,g=n,c=3,n=s
वितत्य वितन् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
pos=i
एक एक pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s