Original

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ २० ॥

Segmented

रामस्य धनुषः शब्दम् श्रोष्यसि त्वम् महा-स्वनम् शतक्रतु-विसृष्टस्य निर्घोषम् अशनेः इव

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
शतक्रतु शतक्रतु pos=n,comp=y
विसृष्टस्य विसृज् pos=va,g=m,c=6,n=s,f=part
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
अशनेः अशनि pos=n,g=m,c=6,n=s
इव इव pos=i