Original

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ १३ ॥

Segmented

एवम् त्वाम् पाप-कर्माणम् वक्ष्यन्ति निकृता जनाः दिष्ट्या एतत् व्यसनम् प्राप्तो रौद्र इति एव हर्षिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
निकृता निकृ pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
रौद्र रौद्र pos=a,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part