Original

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ।निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ।विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ॥ ६ ॥

Segmented

प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत निष्पत्त्र-शाखाम् विहगैः क्रियमाणाम् इव असकृत् विनिष्पतद्भिः शतशस् चित्रैः पुष्प-अवतंसकैः

Analysis

Word Lemma Parse
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तत्रस्थो तत्रस्थ pos=a,g=m,c=1,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan
निष्पत्त्र निष्पत्त्र pos=a,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
विहगैः विहग pos=n,g=m,c=3,n=p
क्रियमाणाम् कृ pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
असकृत् असकृत् pos=i
विनिष्पतद्भिः विनिष्पत् pos=va,g=m,c=3,n=p,f=part
शतशस् शतशस् pos=i
चित्रैः चित्र pos=a,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
अवतंसकैः अवतंसक pos=n,g=m,c=3,n=p