Original

महालतानां दामानि व्यधमत्तरसा कपिः ।यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥

Segmented

महा-लतानाम् दामानि व्यधमत् तरसा कपिः यथा प्रावृषि विन्ध्यस्य मेघ-जालानि मारुतः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
लतानाम् लता pos=n,g=f,c=6,n=p
दामानि दामन् pos=n,g=n,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तरसा तरस् pos=n,g=n,c=3,n=s
कपिः कपि pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
मेघ मेघ pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s