Original

विहंगसंघैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥

Segmented

विहङ्ग-संघैः हीनाः ते स्कन्ध-मात्र-आश्रयाः द्रुमाः बभूवुः अगमाः सर्वे मारुतेन इव निर्धुताः

Analysis

Word Lemma Parse
विहङ्ग विहंग pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्कन्ध स्कन्ध pos=n,comp=y
मात्र मात्र pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अगमाः अगम pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मारुतेन मारुत pos=n,g=m,c=3,n=s
इव इव pos=i
निर्धुताः निर्धू pos=va,g=m,c=1,n=p,f=part