Original

प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ।ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ७१ ॥

Segmented

प्लवमानम् तु तम् दृष्ट्वा प्लवगम् त्वरितम् तदा ववृषुः पुष्प-वर्षाणि देव-गन्धर्व-दानवाः

Analysis

Word Lemma Parse
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्लवगम् प्लवग pos=n,g=m,c=2,n=s
त्वरितम् त्वर् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
ववृषुः वृष् pos=v,p=3,n=p,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p