Original

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ १७ ॥

Segmented

शिरोभिः पृथुभिः सर्पा व्यक्त-स्वस्तिक-लक्षणैः वमन्तः पावकम् घोरम् ददंशुः दशनैः शिलाः

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
पृथुभिः पृथु pos=a,g=n,c=3,n=p
सर्पा सर्प pos=n,g=m,c=1,n=p
व्यक्त व्यक्त pos=a,comp=y
स्वस्तिक स्वस्तिक pos=n,comp=y
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
वमन्तः वम् pos=va,g=m,c=1,n=p,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
ददंशुः दंश् pos=v,p=3,n=p,l=lit
दशनैः दशन pos=n,g=m,c=3,n=p
शिलाः शिला pos=n,g=f,c=2,n=p