Original

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ॥ १६४ ॥

Segmented

बहुशः सेविते वीरैः विद्याधर-गणैः वरैः कपिना कृष्यमाणानि महा-अभ्राणि चकाशिरे

Analysis

Word Lemma Parse
बहुशः बहुशस् pos=i
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
विद्याधर विद्याधर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वरैः वर pos=a,g=m,c=3,n=p
कपिना कपि pos=n,g=m,c=3,n=s
कृष्यमाणानि कृष् pos=va,g=n,c=1,n=p,f=part
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit