Original

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।पितुर्बहुमतो नित्यं मम चापि तथा पुरा ॥ १ ॥

Segmented

वाली नाम मम भ्राता ज्येष्ठः शत्रु-निषूदनः पितुः बहु-मतः नित्यम् मम च अपि तथा पुरा

Analysis

Word Lemma Parse
वाली वालिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
पुरा पुरा pos=i