Original

ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ ३५ ॥

Segmented

ततः प्रतीतम् प्लवताम् वरिष्ठम् एकान्तम् आश्रित्य सुख-उपविष्टम् संचोदयामास हरि-प्रवीरः हरि-प्रवीरम् हनुमन्तम् एव

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतीतम् प्रती pos=va,g=m,c=2,n=s,f=part
प्लवताम् प्लु pos=va,g=m,c=6,n=p,f=part
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
एकान्तम् एकान्त pos=a,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
हनुमन्तम् हनुमन्त् pos=n,g=m,c=2,n=s
एव एव pos=i