Original

अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमेत् ।यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ २४ ॥

Segmented

अपक्षो हि कथम् पक्षी कर्म किंचिद् उपक्रमेत् यत् तु शक्यम् मया कर्तुम् वाच्-बुद्धि-गुण-वर्तिना

Analysis

Word Lemma Parse
अपक्षो अपक्ष pos=a,g=m,c=1,n=s
हि हि pos=i
कथम् कथम् pos=i
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपक्रमेत् उपक्रम् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
गुण गुण pos=n,comp=y
वर्तिना वर्तिन् pos=a,g=m,c=3,n=s