Original

विधिः किल नरं लोके विधानेनानुवर्तते ।यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ ४ ॥

Segmented

विधिः किल नरम् लोके विधानेन अनुवर्तते यथा अयम् विहितो भक्ष्यः चिरान् मह्यम् उपागतः

Analysis

Word Lemma Parse
विधिः विधि pos=n,g=m,c=1,n=s
किल किल pos=i
नरम् नर pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
विधानेन विधान pos=n,g=n,c=3,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
भक्ष्यः भक्ष् pos=va,g=m,c=1,n=s,f=krtya
चिरान् चिरात् pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part