Original

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ।उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् ।दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥ १९ ॥

Segmented

मतम् तद् वालिन्-पुत्रस्य विज्ञाय प्लवग-ऋषभाः उपस्पृश्य उदकम् सर्वे प्राङ्मुखाः समुपाविशन् दक्षिण-अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः

Analysis

Word Lemma Parse
मतम् मत pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
उपस्पृश्य उपस्पृश् pos=vi
उदकम् उदक pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राङ्मुखाः प्राङ्मुख pos=a,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan
दक्षिण दक्षिण pos=a,comp=y
अग्रेषु अग्र pos=n,g=m,c=7,n=p
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
उदक् उदञ्च् pos=a,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part